श्रीबाला-सहस्राक्षरी स्तोत्रम्

सर्वारिष्ट-विनाशक श्रीबाला-सहस्राक्षरी स्तोत्रम् :-
 “ ऐं नमः श्री बालायै । ऐं नमो बालायै, त्रिगुण-रहितायै, क्लीं शिवा-रुपिण्यै, शिवोर्ध्व-गतायै, त्रि-मात्रायै, सौः सर्व-देवाधि-देवीश्वर्यै, ऐं खं ऐं खं ऐं खं फट् ।
ॐ क्लीं ॐ क्लीं ॐ क्लीं फट् । हंसः सौः हंसः हंसः सौ फट् । ह्रां ह्रीं ह्रूं ऊर्ध्वाम्नायेश्वर्यै, ख्फ्रें ह्फ्रें स्फ्रें ह्रीं ह्रूं ह्रौं ह्रौं फट् । त्रीं ध्रीं प्रीं फ्रीं त्रैलोक्य-विजयेश्वर्यै, महा-प्रकाशायै स्वाहा- शताक्षरी ।
ऐं ह्रीं ख्फ्रें हफ्रें ह्स्ख्फ्रें । ॐ ह्रूं क्लीं क्रीं रां रीं रुं सौः । ॐ-कार-रुपिण्यै, ऐंकार-संस्थितायै, हंसः सोहं परमात्मा जगन्मयी । यज्ञ-रुपिण्यै, जनानन्द-दायिन्यै, त्रि-जगताधीश्वर्यै । ह्रीं ह्रीं, फट् फट् फट् । शत्रु-नाशिन्यै, जय-प्रदायै, त्रि-विद्या-चक्रेश्वर्यै, नर-मुण्ड-माला-धारिण्यै । नर-चर्मावगुण्ठिनि, नरास्थि-हारिन्यै, महा-देवासनि, संसारार्णव-तारिणि ! मम शत्रुं भञ्जय-भञ्जय, तुरु-तुरु, मुरु-मुरु, हिरि-हिरि, मनोरथं पूरय पूरय, ममाधि-व्याधिं नाशय-नाशय, छिन्धि-छिन्धि, भिन्दि-भिन्दि । कुरु-कुल्ले ! सर्वारिष्टं विनाशय विनाशय, हेरि-हेरि, गेरि-गेरि, त्रासय-त्रासय मम् रिपून् भ्रामय-भ्रामय, खड्गेन खण्डं-खण्डं कुरु-कुरु । इषुना मर्म भेदय-भेदय, ऐं ख्रें ख्रैं ख्रों ख्रौं ख्रः । रक्त-वर्ण-शरीरे, महा-घोर-रावे, शर-वाण-हस्ते, वराभयांकित-चारु-हस्ते ! हूं हूं हूं फट् । चतुर्दश-भुवन-मालिनि, चतुर्दश-विद्याधीश्वरि, चतुर्वेदाध्यायिनि, चातुर्वर्ण्य-एकाकार-कारिणि, कान्ति-दायिनि, महा-घोर-घोर-तरे, अघोरामुखि, अघोर-मूर्ध्नि-संस्थिते, परापर-पर-ब्रह्माधि-रुढिनि ! ह्रीं ढ्रीं क्षीं फट् । ॐ ऐं ॐ क्लीं ॐ सौः । श्रीं ऐं ऐं ऐं हसैं स्हैं ॐ ह्रः फट् । पञ्च-प्रेतासने महा-मोक्ष-दात्री । ॐ हूं फट् ह्रः फट् छ्रां छ्रीं छ्रीं ॐ । जगद्-योनि-रुपे, योनि-सर्पि-विभूषिणि, योनि-सृक्-शिर-भूषिणि, योनि-मालिनि, योनि-संकोचिनि, योनि-मध्य-गते । द्रां द्रीं द्रूं क्षौं हं फट् क्षां यां रां लां वां शां हां ॐ । ॐ फट् ऐं हूं फट् क्लीं हूं फट् सौः हूं फट् । श्मशान-वासिनि, श्मशान-भस्म-लेपिनि, श्मशानांगार-निलये, शवारुढे, शव-मांस-भक्ष-महा-प्रिये, शव-परित-व्याप्ति-हाहा-शब्दाति-प्रिये, डामरि, भूतिनि, योगिनि, डाकिनि, राक्षसि, सह-विहारिणि, परा-प्रासाद-गरहिनि, भस्मीलेप-कार-विभूषिते ! फ्रं ख्फ्रें हस्फ्रें हस्व्फ्रें सह्ख्फ्रें गां गीं गूं सः फट्, क्म्रीं च्म्रीं ढ्म्रीं ह्म्रीं क्ष्म्रीं फट् । गिरि-निवासिनि, गिरि-पुष्प-संशोभिनि, गिरि-पुत्रि, गिरि-धारिणि, गीत-वाद्य-विमोहिनि, त्रैलोक्य-मोहिनि, देवि, दिव्यांग-वस्त्र-धारिणि, दिव्य-ज्ञान-प्रदे, दिविषद्-मातः, सिद्धि-प्रदे, सिद्धि-स्वरुपे, सिद्धि-विद्योतातीतातीते, ख-मार्ग-प्रचारिणि, खगेश्वरि, खड्ग-हस्तिनि, खं-बीज-मध्य-गते ! ॐ ऐं ॐ ह्रीं ॐ श्रीं ॐ फट् तां तीं तूं तैं तौं तः, हां हीं हूं हैं हौं हः, वां वीं वूं वैं वौं वः, च्फ्रें ह्फ्रें क्ष्प्रें अ कं चं टं तं पं यं शं । मातृका-चक्र-चक्रे, हासिनि ! ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः, श्लीं हूं फट्, अं आं ऐं, इं ईं ऐं, उं ऊं ऐं, ऋं ॠं ऐं, ऐं ऐं ऐं, ओं औं ऐं, अं अः ऐं फट् । निर्वाण-रुपे, निर्वाणातीते, निर्वाण-दात्रि, निरंकुशिनि, निराकारे, निरञ्जनावतारिणि, षट्-चक्रेश्वरि, सह-स्रात्मे, महा-सूक्ष्म-सूक्ष्मे, सूक्ष्मातीत-सूक्ष्म-नाम-रुपिणि, महा-प्रलयान्त-एक-शेषाक्षिणि, संसाराब्धि-दुःख-तारिके, सृष्टि-स्थित्यन्त-कारिके, क्मांलांवुंयूं, ग्मांलांवुंयूं स्मौंलांवुंयूं क्ष्मांलांवुंयूं, ह्रीं धं छिन्धि, सु-बुद्धि दद दद, मोक्ष-मार्ग दर्शय-दर्शय, तवानुचरं कुरु कुरु, हिरि हिरि, धिमि-धिमि-धिमि, । महा-डमरु-वादन-महा-प्रिये ! आं हूं हूं हूं हूं फट् । मम हृदये तिष्ठ-तिष्ठ, सु-फलं देहि-देहि । सर्व-तीर्थ-फलं प्रदापय-प्रदापय, सर्व-दान-फलं प्रापय-प्रापय । ज्योति-स्वरुपिणि ! सर्व-योग-फलं कुर-कुरु, स्फ्रों क्रों ह्रीं  ऐं क्लीं सौः स्वाहा । श्रीमद्-बालायै स्वाहा ।”

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें