ध्यान


अरुण किरण जालै रंजीता सावकाशा,विधृत जपवटीका पुस्तकाभीति हस्ता !
इतरकर वराढय़ा फुल्ल कल्हार संस्था ,निवसतु ह्यदी बाला नित्य कल्याण शीला !!


ऐङ्कारासनगर्भितानलशिखां सौः क्लीं कलां बिभ्रतीं
सौवर्णाम्बरधारिणीं वरसुधाधौतान्तरङ्गोज्ज्वलाम्
वन्दे पुस्तकपाशसाङ्कुशजपस्रग्भासुरोद्यत्करां
तां बालां त्रिपुरां त्रिनयनां षट्चक्रसञ्चारिणीम् !!



रक्ताम्बरां चन्द्रकलावतंसां समुद्यदादित्यनिभां
त्रिनेत्राम् विद्याक्षमालाभयदानहस्तां
ध्यायामि बालामरुणांबुजस्थाम् !!


विद्याक्षमाला सुकपालमुद्रां राजत्करां कुन्दसमानकान्तिम् !
मुक्ताफलालङ्कृतशोभिताङ्गीं बालां स्मरेत् वाङ्मयसिद्धिहेतो !!

बालभानुप्रतीकाशां पलाशकुसुमप्रभां कमलायतनेत्रां तां विधिविष्णुशिवस्तुताम् बिभ्रतीमिक्षुचापञ्च पुष्पौघं पाशमङ्कुशं नमामि ललितां बालां त्रिपुरामिष्टसिद्धिदाम् ऐं क्लीं सौं नमः श्रीबालात्रिपुरसुन्दरी !!

1 टिप्पणी: